|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.69. अध्यायः 069
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कृतादियुगचतुष्टयगुणनिरूपणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-69-0x(5499)(67562)
दण़्डनीतिश्च राजा च समस्तौ तावुभावपि।
तत्र किं कुर्वतः सिद्धिस्तन्मे ब्रूहि पितामह॥ 12-69-1(67563)
भीष्म उवाच। 12-69-2x(5500)
माहात्म्यं दण्डनीत्यास्तु साध्यं शब्दैः सहेतुकैः।
शृणु मे शंसतो राजन्यथावदिह भारत॥ 12-69-2(67564)
दण्डनीतिः स्वधर्मेषु चातुर्वर्ण्यं नियच्छति।
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति॥ 12-69-3(67565)
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे।
दण़्डनीतिकृते क्षेमे प्रजानामकुतोभये॥ 12-69-4(67566)
सोमे प्रयत्नं कुर्वन्ति वयो वर्णा यथाविधि।
तस्मादेव मनुष्याणां सुखं विद्धि समाहितम्॥ 12-69-5(67567)
कालो वा कारणं राज्ञो राजा वा कालकारणम्।
इति ते संशयो माभूद्राजा कालस्य कारणम्॥ 12-69-6(67568)
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते।
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते॥ 12-69-7(67569)
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्।
सर्वेषामेव वर्णानां नाधर्मे रमते मनः॥ 12-69-8(67570)
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः।
वैदिकानि च कर्माणि भवन्त्यपि गुणान्युत॥ 12-69-9(67571)
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः।
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च॥ 12-69-10(67572)
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः।
विधवा न भवन्त्यत्र नृशंसो नात्र जायते॥ 12-69-11(67573)
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा।
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च॥ 12-69-12(67574)
नाधर्मो विद्यते तत्र धर्म एव तु केवलम्।
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर॥ 12-69-13(67575)
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते।
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते॥ 12-69-14(67576)
अधर्मस्य चतुर्थांशस्त्रीनंशाननुवर्तते।
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा॥ 12-69-15(67577)
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते।
ततस्तु द्वापरं नाम स कालः संप्रवर्तते॥ 12-69-16(67578)
अशुभस्य यदा त्वर्धं द्वावंशावनुवर्तते।
कुष्टपच्यैव पृथिवी भवत्यर्धफला तथा॥ 12-69-17(67579)
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः।
प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः॥ 12-69-18(67580)
कलावधर्मो भूयिष्ठो धर्मो भवति न क्वचित्।
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः॥ 12-69-19(67581)
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया।
योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः॥ 12-69-20(67582)
वैदिकानि च कर्माणि भवन्ति विगुणान्युत।
ऋतवो न सुखाः सर्वे भवन्त्यामयिनस्तथा॥ 12-69-21(67583)
ह्रसन्त च मनुष्याणां स्वरवर्णमनांस्युत।
व्याधयश्च भवन्त्यत्र म्रियन्ते चाशतायुषः॥ 12-69-22(67584)
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा।
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति॥ 12-69-23(67585)
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः।
प्रजाः संरक्षितुं सम्यग्दण़्डनीतिसमाहितः॥ 12-69-24(67586)
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च।
युगस्य च चतुर्थस्य राजा भवति कारणम्॥ 12-69-25(67587)
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते।
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते॥ 12-69-26(67588)
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते।
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते॥ 12-69-27(67589)
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः।
प्रजानां कल्मषे मग्नोऽकीर्ति पापं च विन्दति॥ 12-69-28(67590)
दण्डनीतिं पुरस्कृत्य क्षत्रियेण विजानता।
लिप्सितव्यमलभ्यं च लब्धं रक्ष्यं च भारत।
`योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः॥' 12-69-29(67591)
लोकस्य सीमन्तकरी मर्यादा लोकपावनी।
सम्यङ्गीता दण्डनीतिर्यथा माता यथा पिता॥ 12-69-30(67592)
यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ।
एष एव परो धर्मो यद्राजा दण्डनीतिमान्॥ 12-69-31(67593)
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान्।
एवं वृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम्॥ ॥ 12-69-32(67594)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनसप्ततितमोऽध्यायः॥ 69॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-69-3 अधर्मेभ्य इति प़ञ्चमी॥ 3॥ 12-69-11 कपणो न त्विति झ. पाठः॥ 12-69-18 अयोगेन अनुप्रायेन॥ 12-69-20 योगक्षेमस्य नाशाच्चेति ट. ड. थ. पाठः॥ 12-69-30 सीमन्तकरी त्र्यवस्यापिका॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|